|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.57. अध्यायः 057
Mahabharata - Shalya Parva - Chapter Topics
भीमदुर्योधनयोर्वीरवादः॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
वैशम्पायन उवाच। 9-57-0x(5228)(63360)
ततो वाग्युद्धमभवत्तुमुलं जनमेजय।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्॥ 9-57-1(63361)
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी।
एकादशचमूभर्ता यत्र पुत्रो ममानघ॥ 9-57-2(63362)
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम्।
गदामादाय चैकाकी पदातिः प्रस्थितो रणम्॥ 9-57-3(63363)
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः।
गदामुद्यम्य यो याति किमन्यद्भागधेयतः॥ 9-57-4(63364)
अहो दुःखं महत्प्राप्तं पुत्रेण मम स़ञ्जय।
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः॥ 9-57-5(63365)
सञ्जय उवाच। 9-57-6x(5229)
स मेघनिनदो हर्षान्निनदन्निव गोवृषः।
आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान्॥ 9-57-6(63366)
भीममाह्वयमाने तु कुरुराजे महात्मनि।
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत॥ 9-57-7(63367)
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च।
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः॥ 9-57-8(63368)
महास्वनाः सुनिर्वातास्तुमुला रोमहर्षणाः।
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात्॥ 9-57-9(63369)
राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते।
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा॥ 9-57-10(63370)
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करकर्षिणः।
गिरीणां शिखराण्येव न्यपतन्त महीतले॥ 9-57-11(63371)
मृगा बहुविधाकाराः सम्पतन्ति दीशो दश।
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः॥ 9-57-12(63372)
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः।
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः॥ 9-57-13(63373)
उदपानगताश्चापो व्यवर्धन्त समन्ततः।
अशरीरा महानादाः श्रूयन्ते स्म भयानकाः॥ 9-57-14(63374)
एवमादीनि दृष्ट्वा स निमित्तानि वृकोदरः।
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम्॥ 9-57-15(63375)
एष शक्यो मया जेतुं मन्दात्मा च सुयोधनः॥ 9-57-16(63376)
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदयेशयम्।
सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः॥ 9-57-17(63377)
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्।
निहत्य गदया पापमिमं कुरुकुलान्तकम्॥ 9-57-18(63378)
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि।
हत्वेमं पापकर्माणं गदया रणमूर्धनि॥ 9-57-19(63379)
अद्योरुगदया राजन्भेत्ताऽस्मि समरेऽनया।
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम्॥ 9-57-20(63380)
सर्पोत्सर्गस्य शयने विषदानस्य भोजने।
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि॥ 9-57-21(63381)
सभायामवहासस्य सर्वस्वहरणस्य च।
वर्षमज्ञातवासस्य वनवासस्य चानघ॥ 9-57-22(63382)
अद्यान्तमेषां दुःखानां गन्ताऽहं भरतर्षभ।
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः॥ 9-57-23(63383)
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः।
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम्॥ 9-57-24(63384)
अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः।
समाप्तं च महाराज नारीणां दर्शनं पुनः॥ 9-57-25(63385)
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः।
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले॥ 9-57-26(63386)
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम्।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्॥ 9-57-27(63387)
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान्।
अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्॥ 9-57-28(63388)
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्।
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह॥ 9-57-29(63389)
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः।
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते॥ 9-57-30(63390)
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला।
द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च॥ 9-57-31(63391)
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत्।
विराटनगरे चैव योन्यन्तरगतैरिव।
तत्सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते॥ 9-57-32(63392)
त्वत्कृतेऽसौ हतः शेते शरतल्पे पितामहः।
गाङ्गेयो रथिनां श्रेष्ठो रथिना याज्ञसेनिना॥ 9-57-33(63393)
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान्।
वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः॥ 9-57-34(63394)
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः।
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः॥ 9-57-35(63395)
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः।
त्वामद्य निहनिष्यामि गदया नात्र संशयः॥ 9-57-36(63396)
इत्येवमुच्चै राजानं भाषमाणं वृकोदरम्।
उवाच गतभी राजन्पुत्रस्ते सत्यविक्रमः॥ 9-57-37(63397)
किं कत्थनेन बहुना युध्यस्वेह वृकोदर।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम॥ 9-57-38(63398)
इति दुर्यार्धेनोऽक्षुद्रस्त्वया क्षुद्रबलेन वै।
शक्यस्रासयितुं वाचा न चान्यः प्राकृतो यथा॥ 9-57-39(63399)
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम।
त्वया सह गदायुद्धं त्रिदशैरुपपादितम्॥ 9-57-40(63400)
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते।
वाणी सङ्कोच्यतामेषा कर्मणा मा चिरं कृथाः॥ 9-57-41(63401)
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन्।
राजानः सोमकाश्चैव ये तत्रासन्समागताः॥ 9-57-42(63402)
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः।
भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः॥ 9-57-43(63403)
तं मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः।
भूयः संहर्षयांचक्रुर्दुर्योधनममर्षणम्॥ 9-57-44(63404)
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः।
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः॥ 9-57-45(63405)
बृंहन्ति कुञ्चरास्तत्र हया हेषन्ति चासकृत्।
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणां ॥ 9-57-46(63406)
इति श्रीमन्महाभारते शल्यपर्वणि कदायुद्धपर्वणि सप्तपञ्चाशत्तमोऽध्यायः॥ 57 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-57-16 नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधन इति झ.पाठः॥ 9-57-41 वाणी सम्पद्यतामिति झ.पाठः॥ 9-57-57 सप्तपञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|